संस्कृतशिक्षायै ई- अधिगमः By Dr Dharmendra Sharma

 

  डॉ.धर्मेन्द्रशर्मा

                                                                        👏👏        

।। संस्कृतशिक्षायै ई- अधिगमः ।।

समये यस्मिन् वयं जीवामः तत्वैज्ञानिकः आधुनिकश्च वर्तते। यत्र पूर्वकालादपेक्षया विवर्तमाने बहूनि परिवर्तनानि आगतानि सन्ति। जनानां परिवेशे भोजने कामनासु च विकल्पाः लभन्ते। तथा च एतेभ्यः ते स्वकीयं प्राचीनैतिहासं शनैः शनैः विस्मरन्तः सन्ति। एषः प्रभावः संस्कृतशिक्षायै अपि दरीदृश्यते। संस्कृतशिक्षायाः वाङ्मययस्य बृहत् क्षेत्रं महत्ता च प्रायः ख्यायते जगति परं तस्य वाङ्मयस्य प्राप्तिः सकलजनान् भवेत् तदर्थं नास्ति पर्याप्ता प्राक्कालादेव प्रचाल्यमाना पद्धतिः। अतो परिवर्तमानेन समयेन साकं संस्कृतविद्वद्भिः शिक्षकैः छात्रैः संस्कृतसह्रदयजनैश्च सामञ्जस्यमुपस्थाप्यते। यतोहि शिक्षणस्य अधिगमस्य क्षेत्रं केभ्यश्चित् दिनेभ्यः पूर्वं कक्षाशिक्षणपर्यन्तमेव सीमितमासीत् परं अद्यतनीययुगे शिक्षाजगत् पूर्णरूपेण प्रविधेः प्रगत्याप्रभावितं वर्तते हि। प्रविधेः विकासात् सः समयः गतः यदा कस्यचित् विषयस्य ज्ञानं केवलं कक्षाकक्ष-पाठ्यपुस्तक-शिक्षकश्च पर्यन्तं सीमितं भवति स्म। इदानीं ज्ञानस्य क्षेत्रं यावत् विस्तृतं वर्तते तस्य प्राप्तिरपि तावन्ती सरला सुलभा च जाता। एतत्सर्वं सङ्गणकात् तथा च सङगणकात् अजायत् नेट्वर्किंग इत्यस्मात् तथा च वेबप्रविधेश्च सिद्धमभूत्।

        कालेन सङ्गणकात् अन्तर्जालात् तथा च विद्युदुपकरणैः प्राप्तज्ञानस्य सम्प्रत्ययः अधुना      ई-लर्निंग इति नाम्नः ज्ञायते खलु। वस्तुतः Electronic Learning इति पदस्य संक्षिप्तनाम् ई- लर्निंग अर्थात् ई- अधिगमः अस्ति। ई- अधिगमः सूचनासम्प्रेषणप्रविधेः तादृशः रूपः विद्यते यस्यान्तर्गते सङ्गणकीयान्तर्जालस्य तथा वेबप्रविधीनां सेवानामुपयोगः विद्यार्थिभ्यः तादृशं Online- अधिगमं प्रदातुं प्रयतते यथा- जनाः E-Mail, E-Banking, E- Booking इत्यादिनाम् उपयोगं विदधन्ति। ई- अधिगमः अनिवार्यत्वेन कौशल-ज्ञानयोः सङ्गणकेन नेट्वर्क इत्यनेन च समर्थितान्तरणं विद्यते।[1] यस्यावश्यकता संस्कृतशिक्षायाः क्षेत्रेऽपि अनुभूयते।

अधुना अन्यविषयाणां शिक्षायाः अपेक्षया संस्कृतशिक्षायाः ज्ञानस्रोतान्सि अन्तर्जालेषु न्यूनतया प्राप्यन्ते। यद्यपि सन्ति जालपुटानि अन्तर्जाले संस्कृतसम्बद्धानि परं तानि अङ्गुलीयगणकीयानि एव। संस्कृतसम्बद्धानि चलचित्राणि  Youtube इति माध्यमे अपेक्षानुगुणं न लभन्ते। सर्वकारीयप्रयासानुगुणम् अधुना भारते पञ्चदशसंस्कृतविश्वविद्यालयाः उद्घाटिताः। तेषां जालपुटेषु ग्रन्थानां संग्रहः E-Book रूपेण तथा च संस्कृतं प्रति संस्कृततेतरजनानां रूचिवर्धनाय नूतनं किमपि विद्यते। यथा- राष्ट्रियसंस्कृतसंस्थानस्य जालपुटे नैकाः संस्कृतग्रन्थाः प्राप्यन्ते।  विश्वविद्यालयानां जालपुटानि विहाय सन्ति काश्चन संस्थाः वा जनाः ये कार्याणि कुर्वते संस्कृतशिक्षाप्रदानाय ई-अधिगमस्य माध्यमेन। तत्प्रयासः सराहनीयः वर्तते। तत्सङ्कलनम् अधः विलिखितं वर्तते।

[2]

संस्कृतसम्बद्ध Forums & Blogs (Web Logs)

kalidasa.blogspot.com

sanskritlinks.blogspot.com

sanskritbhasha.blogspot.com

samskrtam.wordpress.com

learnsanskrit.wordpress.com

srinilakshmi.wordpress.com

yaajushi.blogspot.com

sanskrit-quote.blogspot.com

संस्कृतशब्दकोशाः

Cologne Digital Sanskrit Lexicon http://www.sanskrit-lexicon.uni-koeln.de

Spoken Sanskrit-English Dictionary http://spokensanskrit.de/

A Practical Sanskrit Dictionary

http://dsal.uchicago.edu

संस्कृतग्रन्थाः & वक्तव्यानि

Maharshi Institute of Management http://vedicreserve.mum.edu

http://valmikiramayan.net/

http://www.sanskritlibrary.org/

संस्कृत Fonts & Tools

 

 

Sanskrit Fonts & Textshttp://www.sanskritweb.net/

Online Interface to ITRANS http://www.aczoom.com

Technology Development for Indian Languages (TDIL, Govt. of India)http://tdil.mit.gov.in/

Sanscript http://www.learnsanskrit.org

Sanskrit OCR Software http://www.sanskritreader.de/

Ganakastadhyayi (Computerised Ashtadhyayi)http://www.taralabalu.org/panini/

संस्कृताधिगमः अन्यानि च जालपुटानि

 (Redirects to samskrutam.com) eSanskrit.com

संस्कृतभारती http://www.samskritabharati.org/

RASHTRIYA  SANSKRIT  SANSTHAN

http://www.sanskrit.nic.in/

संस्कृत अकादमी http://www.sanskrit-academy.com/

Shri Devasthanam http://sanskrit.org/

संस्कृतलेखाः स्तोत्राणि च http://sanskrit.safire.com/

(Spoken sanskrit in audio) http://surasa.net/music/samskrta-vani/

 

संस्कृतस्तोत्राणि श्रवणमाध्यमेन http://www.prapatti.com/slokas/mp3.html

Academy of Sanskrit Research http://www.sanskritacademy.org

www.vedanta.com

http://www.jambudvipa.net

http://www.hindunet.org/

संस्कृतशिक्षायै ई- अधिगमस्य उपयोगिताः-

1.          परम्परानुगुणं संस्कृतशिक्षणस्य तुलनायाम् ई-अधिगमेन अधिगमकर्तारः समानाधिगमस्य प्रशिक्षणस्य च अवसराः लभन्ते। केवलं तेभ्यः ई- अधिगमस्य सुविधा स्यात् ।

2.          भारते अथवा जगतः कस्मिन्नपि कोणे विराजमानं  संस्कृतपिपासुजनं अनेन माध्यमेन संस्कृतग्रन्थानाम् उच्चानुदेशनं ज्ञानञ्च प्रदातुं शक्यते।

3.          संस्कृतग्रन्थानां  संस्कृतशास्त्राणां शास्त्रार्थानां व्याख्यानानां च विविधमाध्यमेषु यथा – सी. डी., डी.वी.डी. मोबाइल इत्यादिषु तत् सम्बद्धात् जालपुटात् विद्यार्थिभिः शिक्षकैः वा अन्यैः येभ्यः आवश्यकता भवति  परिशीलनं कर्तुं शक्यन्ते।

4.          ई-अधिगमेन अधिगमकर्ता संस्कृतपाठ्यपुस्तकानां स्वकीयावश्यकतानुगुणं समयानुगुणं वा यदा वाञ्छति तदा ज्ञानम् अवाप्तुं शक्नोति।

5.          ई-अधिगमः इत्यस्मिन् शिक्षक-छात्रेषु Online- Offline तथा च प्रत्यक्षरूपेण अन्तःक्रियामुत्पादनस्य क्षमता विद्यते

अतः अधिगमोऽयं कञ्चन नूतनविकल्पं यच्छति संस्कृतशिक्षाप्रदानाय। निष्कर्षत्वेन वक्तुं शक्यते यत् वैज्ञानिकयुगेन साकं शनैः शनैः संस्कृतक्षेत्रस्य जनैरपि अद्यतनीयः भूयते अपि च भाव्यम्। तथा च संस्कृतविद्वद्भिः संस्कृतशिक्षकैः संस्कृतछात्रैः च ज्ञानस्य अन्यतमः स्रोतसा ई- अधिगमेन लाभः स्वीकरणीयः अन्यान् च बोधव्यः। इत्यलम्।                  



[1] https://hi.wikipedia.org

Comments