संस्कृतशिक्षायै ई- अधिगमः By Dr Dharmendra Sharma
डॉ. धर्मेन्द्रशर्मा 👏👏 ।। संस्कृतशिक्षायै ई- अधिगमः ।। समये यस्मिन् वयं जीवामः तत्वैज्ञानिकः आधुनिकश्च वर्तते। यत्र पूर्वकालादपेक्षया विवर्तमाने बहूनि परिवर्तनानि आगतानि सन्ति। जनानां परिवेशे भोजने कामनासु च विकल्पाः लभन्ते। तथा च एतेभ्यः ते स्वकीयं प्राचीनैतिहासं शनैः शनैः विस्मरन्तः सन्ति। एषः प्रभावः संस्कृतशिक्षायै अपि दरीदृश्यते। संस्कृतशिक्षायाः वाङ्मययस्य बृहत् क्षेत्रं महत्ता च प्रायः ख्यायते जगति परं तस्य वाङ्मयस्य प्राप्तिः सकलजनान् भवेत् तदर्थं नास्ति पर्याप्ता प्राक्कालादेव प्रचाल्यमाना पद्धतिः। अतो परिवर्तमानेन समयेन साकं संस्कृतविद्वद्भिः शिक्षकैः छात्रैः संस्कृतसह्रदयजनैश्च सामञ्जस्यमुपस्थाप्यते। यतोहि शिक्षणस्य अधिगमस्य क्षेत्रं केभ्यश्चित् दिनेभ्यः पूर्वं कक्षाशि...